पृष्ठम्:श्रीपरात्रिंशिका.pdf/३१

पुटमेतत् सुपुष्टितम्

ॐ तत्सत्स्वप्रकाशानन्दवपुषे शिवाय नमः।

अथ

श्रीपरात्रिंशिकाग्रन्थः।

श्रीमदभिनवगुप्ताचार्यकृततत्त्वविवेकाख्यव्याख्योपेतः ।

विमलकलाश्रयाभिनवसृष्टिमहा जननी
भरिततनुश्च पञ्चमुखगुप्तरुचिर्जनकः ।
तदुभययामलस्फुरितभावविसर्गमयं
हृदयमनुत्तरामृतकुलं मम संस्फुरतात् ।।१।।


[१] ॥१॥


  1. 'अभिनवसृष्टौ -शुद्धाध्वरूपायां, महा-पारिपूर्ण्यलक्षणं तेजो यस्यां, सा विमलकलाश्रया-परविमर्शसारा जननी शक्तिः, तथा पञ्चमुखेति,- पञ्चशक्तिपूरिताभिलाषः, आकाङ्क्षणीयविरहात् भरिततनुः - पूर्णस्व- भावो जनकः शिवः तदुभयेति, -तत्सामरस्यात्मनः संघट्टात् स्फुरित- भावः उल्लसितसत्ताको यो बहिरुल्लिलसिषास्वभावो विसर्गः, स प्रकृतिः यत्र, तादृशम् अनुत्तरामृतकुलं स्वातन्त्र्यरूपं, मम हृदयं संस्फुरतात् इति- 'सर्वत्रात्र ह्यहं-शब्दो बोधमात्रैकगोचरः ।' इति मीमांसावाक्येन ममेति बोधस्य हृदयं सत्तादायि स्वातन्त्र्यलक्षणं जगदानन्दादिशब्दवाच्यं पारमार्थिकं वस्तु संस्फुरतात्-सम्यक् विकसता- त्; स्वातन्त्र्यरहितो हि बोधोऽबोध एव , तेन यत् बोधस्य अबोधलक्ष- णं स्वातन्त्र्यराहित्यं तत् अपास्य बोधतया स्फुरतात् इत्यर्थः । अथ च अभिनवगुप्तस्य विमलाभिधाना जननी, नरसिंहगुप्तो जनक इति प्रसिद्धिः। अस्य पद्यस्य व्याख्याविस्तरस्तु तन्त्रालोकविवेकेऽस्ति , तत एव द्रष्टव्यम् ।