पृष्ठम्:श्रीपरात्रिंशिका.pdf/३१०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८०
परात्रिंशिका

यो बाल्येऽप्यथ यौवनेऽपि विपयासक्ति विहाय स्थिरा-
 मेनामाश्रयते विमर्शपदवीं संसारनिर्मूलिनीम् ॥७॥
 भ्राता ममैव शिवशासनरूढचित्तः
  प्रेप्सुः परात्मनि मनोरथगुप्तनामा ।
 यः शास्त्रतन्त्रमखिलं प्रविवेक्तुकामः
  माप्तुं परं शिवपदं भवभेदनाय ॥८॥
 शिवशास्त्रैकरसिकः पदवाक्यप्रमाणवित् ।
  रामदेवाभिधानश्च भूपितोत्तमजन्मकः ॥९॥
 एतत्मियहितकरण-
  मरूढहृदयेन यन्मया रचितम् ।
 मार्गप्रदर्शनं तत्
  सर्वस्य शिवाप्तये भूयात् ॥१०॥
 अन्तर्वेद्यामत्रिगुप्ताभिधानः
  प्राप्योत्पत्ति माविशत्पाग्यजन्मा ।
 श्रीकाश्मीरांश्चन्द्रचूडावतारै-
  निःसंख्याकैः पावितोपान्तभागान् ॥११॥
 तस्यान्ववाये महति प्रमूता-
  द्वराहगुप्तात्प्रतिलब्धजन्मा ।
 संसारवृत्तान्तपराङ्मुखो यः
  शिवैकचित्तश्चुखलाभिधानः ॥१२॥


१ पदमिति व्याकरणम् । वाक्यं मीमांसा । प्रमाणं तर्कः ।