पृष्ठम्:श्रीपरात्रिंशिका.pdf/३११

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८१
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

तस्माद्विवेचितसमस्तपदार्थजाता-
 लुब्ध्वापि देहपदवीं परमेशपूताम् ।
प्राप्ताभयोऽभिनवगुप्तपदाभिधानः
 प्रावेशयत्रिकसतत्त्वमिदं निगूढम् ॥ १३ ॥
ये तावत्मविवेकवन्ध्यहृदयास्तेभ्यः प्रणामो वरः
 केऽप्यन्ये प्रविविञ्चते न च गताः पारं धिगेताञ्जडान् ।
यस्त्वन्यः प्रविमर्शसारपदवीसंभावनासुस्थितो
 लक्षैकोऽपि स कश्चिदेव सफलीकुर्वीत यन्त्रं मम ॥१४॥
स्वात्मानं प्रविवेत्तुमप्यलसतां ये विभ्रति प्रार्थना
 तान्प्रत्यात्मकदर्थनान्न परतः किंचित्फलं सोध्यते ।
विश्वस्यास्य विविक्तये स्थिरधियो ये संरभन्ते पुन:
 तानभ्यर्थयितुं मयैष विहितो मूर्ध्ना प्रणामादरः ।। १५ ।।
भ्राम्यन्तो भ्रमयन्ति मन्दधिषणास्ते जन्तुचक्रं जडं
 स्वात्मीकृस गुणाभिधानवशतो बद्धा दृढ बन्धनैः ।
दृष्ट्ठेत्थं गुरुभारवाहविधये यातानुयातान्पशून्
 तत्पाशमविकर्तनाय घटितं ज्ञानत्रिशूलं मया ॥१६॥
बहुभिरपि सोऽहमेव
 भ्रमितस्तत्त्वोपदेशकंमन्यैः।
तत्त्वमिति वर्णयुगमपि
 येषां रसना न पस्पर्श ॥ १७ ॥
परमेश्वरः प्रपन्न-
 पोद्धरणकृपापयुक्तगुरुहृदयः ।
36