पृष्ठम्:श्रीपरात्रिंशिका.pdf/३१२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८२
परात्रिंशिका

श्रीमान्देवः शंभु-
 र्मामियति नियुक्तवांस्तत्त्वे ॥ १८॥
तत्तत्त्वनिर्मलस्थिति-
 विभागिहृदये स्वयं प्रविष्टमिव ।
श्रीसोमानन्दमतं
 विमृश्य मया निबद्धमिदम् ॥ १९ ।।

हंहो हृच्चक्रचारमविरचनलसन्निर्भरानन्दपूर्णा
 देव्योऽस्मत्पाशकोटिप्रविघटनपटुज्ञानशूलोर्ध्वधाराः ।
चेतोवाक्कायमेतद्विगतभवभयोत्पत्ति युष्मासु सम्यक्
 पोतं यत्तेन मह्यं व्रजत किल हृदि द्राक्प्रसादं प्रसह्य ॥२०॥

व्याख्यादिकर्मपरिपाटिपदे नियुक्तो
 युष्माभिरस्मि गुरुभावमनुपविश्य ।
वाक्चित्तचापलमिदं मम तेन देव्य-
 स्तच्चक्रचारुचतुरस्थितयः क्षमध्वम् ॥ २१ ॥


समाप्तमिदं परात्रिंशिकातत्वविवरणम् ॥


शतैरेकोनविंशत्या त्रिंशिकेयं विवेचिता ।
सर्वेषु त्रिकशास्त्रेषु ग्रन्थीनिर्दलयिष्यति ।।


इति श्रीपरात्रिंशिका समाप्ता


विवृतिश्चात्र
तत्र भवत्-श्रीमन्महामाहेश्वराचार्यवर्य-श्रीमदभिनव-
गुप्ताचार्यविरचिता