पृष्ठम्:श्रीपरात्रिंशिका.pdf/३१३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८३
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

सद्विद्यानां संश्रये ग्रन्थविद्वद्-
 व्यूहे ह्रासं कालवृत्त्योपयाते ।
तत्तत्सद्धर्मोद्दिधीर्षैकतान-
 सत्प्रेक्षौजःशालिना कर्मवृत्त्यै ॥१॥
श्रीमत्कश्मीराधिराजेन मुख्यै-
 र्धर्मोद्युक्तैर्मन्त्रिभिः स्वैर्विवेच्य ।
प्रत्यष्ठापि ज्ञानविज्ञानगर्भ-
 ग्रन्थोद्धृत्यै मुख्यकार्यालयो यः ॥२॥
तत्राजीवं निर्विशद्भिर्मुकुन्द-
 रामाध्यक्षत्वाश्रितैः सद्भिरेषः ।
पूर्त्या शुद्ध्या व्याख्यया संस्कृतः स्तात्
 पूर्णो ग्रन्थः श्रेयसे सज्जनानाम् ॥ ३ ॥

        (तिलकम्)


श्रीमत्स्वात्मशिवार्पणं बोभबीतु ।