पृष्ठम्:श्रीपरात्रिंशिका.pdf/३२

पुटमेतत् सुपुष्टितम्
परात्रिंशिका ।

यस्यामन्तर्विश्वमेतद्विभाति
 वाह्याभासं भासमानं विसृष्टौ।
क्षोभे क्षीणेऽनुत्तरायां स्थितौ तां
 वन्दे देवीं स्वात्मसंवित्तिमेकाम्[१] ॥ २॥

नरशक्तिशिवात्मकं त्रिकं
 हृदये या विनिधाय भा[२]सयेत् ।
प्रणमामि परामनुत्तरां
 निजभासां[३] प्रतिभाचमत्कृतिम् ॥३॥

जयत्यनर्घमहिमा विपाशितपशुव्रजः।
श्रीमानाद्यगुरुः शंभुः श्रीकण्ठः परमेश्वरः॥४॥


पं० ६ घ० पु० प्रणिधायेति पाठः ।
पं० ८ क० पु० निजभासमिति पाठः ।



  1. यस्यामन्तरिति, प्रतिबिम्बलक्षणोपेतत्वात् अतिरिक्तत्वेऽपि अनति-
    रिक्ततया इत्यर्थः । बाझाभासमिति, इदन्ताभासं विश्वं विभाति । क्षोभ
    इति इदन्ताभासलक्षणे क्षीणे सति स्वात्मसंवित्ति-स्वस्मिन्नेव आत्मनैव
    संवित्तिः प्रकाशो यस्याः ताम्, -इति अनुत्तरास्वरूपकथनम् । वन्दे
    समाविशामि ।
  2. अन्तःस्थितमेच बहिः प्रकटयेदित्यर्थः ।
  3. स्वीयशक्तीनाम् ।