पृष्ठम्:श्रीपरात्रिंशिका.pdf/३३

पुटमेतत् सुपुष्टितम्
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता ।

निजशिष्यविबोधाय प्रबुद्धस्मरणाय च ।
मयाभिनवगुप्तेन श्रमोऽयं क्रियते मनाक् ॥ ५॥


श्रीदेवी उवाच

अनुत्तरं कथं देव
 सद्यः कौलिकसिद्धिदम् ।
येन विज्ञातमात्रेण
 खेचरीसमतां व्रजेत् ॥१॥

 परमेश्वरः पञ्चविधकृत्यमयः,सततम् अनुग्रहमय्या परारूपया शक्त्या आक्रान्तो वस्तुतोऽ- नुग्रहैकात्मैव , नहि शक्तिः शिवात् भेदमामर्शयेत् । सा च शक्तिः लोकानुग्रहविमर्श- मयी प्रथमतः परामर्शमय्या पश्यन्त्या आसूत्र-


५ अन्यशास्त्रनैरपेक्ष्यं विबोधो यथा स्यात्तदर्थम् ।
६ अन्यशास्त्रेण ये प्रबुद्धास्तेषां स्मरणाय ।
७ श्रमः-शास्त्रलक्षणः ।
८ सततं-सृष्टयादिनिर्भासेऽपि ।


पं० प० पु० पररूपयेति पाठः ।
पं० १० घ० पु० अनुग्रहात्मैव इति पाठः ।
पं० १२ प० पु० परामर्शमयपश्यन्त्येवि पाठः ।