पृष्ठम्:श्रीपरात्रिंशिका.pdf/३४

पुटमेतत् सुपुष्टितम्
परात्रिंशिका ।

यिष्यमाणानन्तशक्तिशताविभिन्ना, प्रथमतरं प- रमहामन्त्रमय्याम् अदेशकालकलितायां संवि- दि निरूढा, तावत् पश्यन्त्युद्भविष्यदुक्तिप्रत्यु- क्त्यविभागेनैव वर्तते । सैव च सकलप्रमातृसं- विदद्वयमयी सततमेव वर्तमानरूपा, ततस्तु प- श्यन्ती यद्यत् अभीप्सितं तत्तदेव समुचितका- रणनियमप्रबोधितं बोधसूत्रमात्रेण विमृशति, यथा अनेकभावाभावज्ञानसंस्कारसंस्कृताया मे- चकधियः स्मृतिबीजप्रबोधकौचित्यात् किंचिदे- व स्मृतिर्विमृशति; नहि प्रथमज्ञानकाले भेदोत्र


९ बहिरनुद्भिन्ना इत्यर्थः । १०. सततमेवेति पश्यन्त्याद्याविर्भावेऽपि । ११ यद्यत्-इष्यमाणादि वस्तुजातम् । १२ कारणम् इच्छादि। १३ पश्यन्ती हि सर्वस्य सामान्यभूरिति कथं तत्रेच्छादिक्रम इति आश- ङ्का, तत्र स्फुटप्रतीत्यै दृष्टान्तमाह 'यथा' इति । १४ नीलधियः । १५ सदृशादृष्टचिन्ताद्येकतमस्य स्मृतिबोधकस्य सत्वात् ।

१६ पश्यन्त्याम् इष्यमाणादिना भेदस्याप्रथनात् ।


पं० १ क० पु० शतभिन्नेति,घ० पु० शतावभिन्ना प्रथमतरपरेति पाठः । पं० ३ घ० पु० विरूढेति पाठः । पं० ७ घ० पु० सूत्रणमात्रेणेति पाठः । पं० ८ क० पु० ज्ञानसंस्कृताया इति पाठः । पं० ९ ख० पु० प्रबोधिका औचित्यादिति पाठः ।