पृष्ठम्:श्रीपरात्रिंशिका.pdf/३६

पुटमेतत् सुपुष्टितम्
परात्रिंशिका ।

मत्कृतिमयी स्वात्मन्येव प्रकाशनमये विश्रम्य स्फुरति , तदेवं स्फुरितमविच्छन्नतापरमार्थम् 'अहम्' इति । तदेतत् अग्रे स्फुटीभविष्यति । तन्मध्य एव तु पश्यन्त्यां यत्र भेदांशस्या- सूत्रणं, यत्र च मध्यमायां भेदावभासः, तत्र उभयत्र ज्ञानक्रियाशक्तिमये रूपे सदाशिवेश्वर- सोरे सैव 'अहम्' इति चमत्कृतिः अन्तःकृतान- न्तविश्वेदन्ताचमत्कृतिपूर्णवृत्तिः, तत् पश्यन्ती- मध्यमात्मिका स्वात्मानमेव वस्तुतः परसंवि- दात्मकं विमृशति परैव च संवित् 'देवी' इत्यु- च्यते । इयता पश्यन्त्यादिसृष्टिक्रमेण बाह्यनी- लादिपर्यन्तेन स्वविमर्शानन्दात्मना क्रीडनेन ,


२२ शक्ति-शक्तिमतोरभेदोपचारात् ज्ञानशक्तिमान् सदाशिवः , उद्रिक्त- क्रियाशक्तिरीश्वर इति । २३ अनुद्भिन्नोद्भिन्नेदन्तालक्षणं स्वं रूपमित्यर्थः । २४ स्वेच्छया हर्षानुसारी स्पन्दः क्रीडा , तात्पर्यणात्र सर्वमयसर्वोत्तीर्ण-

स्वरूपकथनमेवाभिप्रायः ।


पं० १ घ० पु० कृतिमये स्वात्मनीति पाठः । क० ख० ग० पु० प्रकाश- नसमये विश्वस्येति च पाठः । पं० ६ घ० पु० शक्तिमयरूपे इति पाठः । पं० १० घ० पु० संवित् भगवती देवीति पाठः । पं० १२ क० पु० स्वविमर्शात्मना इति पाठः ।