पृष्ठम्:श्रीपरात्रिंशिका.pdf/३७

पुटमेतत् सुपुष्टितम्
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता ।


सर्वोत्तीर्णत्वेन सर्वोत्कर्षावस्थितेः भगवतोभैरव- स्य तथा स्थातुमिच्छया विजिगीषात्मना, इयद- नन्तज्ञानस्मृतिसंशयनिश्चयादिव्यवहारकरणे- न,सर्वत्र च भासमाने नीलादौ तन्नीलाद्यात्मभा- सनरूपेण द्योतनेन, सर्वैरेव तदीयप्रकाशावेशैः तत्प्रवणैः स्तूयमानतया, यथेच्छं च देशका- लावच्छेदन सर्वात्मतागमनेन; अत एव मुख्य-


२५ तथा-सर्वोत्कर्षेण। २६ यदुक्तम्

'स्तुत्याख्यं नास्ति वस्त्वन्यद्व्यापकात्परमेश्वरात् । सर्वोत्तीर्णादिरूपेण शिवोऽहमिति हि स्तुतिः ॥' इति । २७ न चात्र 'देशकालावच्छेदेन सर्वात्मतागमनेन' इति विरुद्धं शङ्क्यं, यतो यो हि व्यापकः सोऽवश्यं सर्वदिक्षु सर्वकालेषु वर्तते, न तु दिक्काला- द्यनवच्छेदेन सर्वात्मता। उक्तं हि श्रीसोमानन्दपादैः

'दिकालादिलक्षणेन व्यापकत्वं विहन्यते । अवश्यं व्यापको यो हि सर्वदिक्षु स वर्तते ॥' इति ।

'दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये । स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ॥'

इति तत्रभवद्भर्तृहरिपादैर्यत्सर्वात्मताया लक्षणं कृतं तदेतदनेन निरा- कृतम्।


पं० १ क० पु० सर्वोत्तीर्णेनेति पाठः । पं० २ क० पु० यदनन्तेति पाठः । पं० ४ क० पु० नीलसुखादौ इति,घ० पु० तन्नीलाद्याभासनेति च पाठः।