पृष्ठम्:श्रीपरात्रिंशिका.pdf/३८

पुटमेतत् सुपुष्टितम्
परात्रिंशिका ।


तो भैरवनाथस्यैव देवत्वमिष्यते, तच्छक्तेरेव भगवत्या देवीरूपता । यदुक्तम्-'दिवु क्रीडा- विजिगीषाव्यवहारद्युतिस्तुतिगतिषु ।' तथा च एवं-विधमुख्यपारमैश्वर्यमयदेवत्वांशांशिकानु- ग्रहात् विष्णुविरिञ्च्यादिषु देवताव्यवहारः। एवं भगवती पश्यन्ती मध्यमा च स्वात्मानमेव यदा विमृशति 'अहमेव परावाग्देवतामयी एवमवोचम्' इति , तदा तेन रूपेण उल्ल- सन्मायारम्भतया स्वात्मापेक्षतया तन्मायी- यभेदानुसारात् तामेव पराभुवं स्वात्ममयीं


२८ यथा हि अन्यत्राचार्याभिनवगुप्तपादैर्निर्णीतम्

'एवं तात्त्वेश्वरे वर्गे लीने सृष्टौ पुनः परे। तस्साधकाः शिवेष्टा वा तत्स्थानमधिशेरते ॥ ब्राह्मी नाम परस्यैव शक्तिस्तां यत्र पातयन् । स ब्रह्मा, विष्णुरुद्राद्या वैष्णव्यादेरतः क्रमात् ॥' इति ।

२९ इयं द्वयी हि इदन्ताभासलक्षणा अतो मायारम्भणम् इत्यर्थः ।


पं० ४ घ० पु० अंशांशिकया देवत्वानुग्रहादिति पाठः । पं० ५ घ० पु० एवं यदा इति पाठः। पं० १० घ० पु० परां भुवमिति पाठः ।