पृष्ठम्:श्रीपरात्रिंशिका.pdf/३९

पुटमेतत् सुपुष्टितम्
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेतः ।


भूत[१]त्वेनअभिमन्वाना, भेदावभासप्राणनान्तर्बहिष्करणपथव्यतिवर्तिनीत्वात् परोक्षत[२]या सूर्यादिसंचारायत्तदिनविभागकृताद्यतनानवच्छेदा [३]त् ब्रह्मणोऽनेककल्पसंमितमहः, ततोऽपि विष्णुप्र[४]भृतेः अन्तश्च प्राण[५]चारादौ प्राणीयशतसहस्रांशेऽपि अहर्व्यवहारः,-इति अवस्थितं,काल्पनिकं च अद्यतनत्वम् अकाल्पनिके संविद्वपुषि कथम् ? इति न्यायात् भूतानद्यतनपरो-क्षार्थपरिपूरणात् परोक्षोत्तमपुरुषक्रमेण विमृशेत् , 'अहमेव सा परावाग्देवीरूपैव सर्ववा-च्यवाचकाविभक्ततया एवमुवाच' इति तात्प-


पं० १ घ० पु० प्राणान्तरिति पाठः ।
पं० ९ घ० पु० पूरणत्वादिति पाठः ।
पं० १.घ० पु० रूपैवमिति पाठः ।


  1. सामान्यभूतकालत्वेन ।
  2. 'अक्षेभ्यो यत् परं तत् परोक्षम्' इति परोक्षलक्षणम् ।
  3. ब्रह्मलोको हि मेरूर्ध्ववर्ती सूर्यस्तु अधोवर्ती इति कथं तत्राद्यतनत्वव्यवहारः सूर्यादिसंचारेण परिच्छिद्यते इत्यर्थः ।
  4. तदूर्ध्ववर्तित्वात् ।
  5. बाह्यदिने सशतषट्कैकविंशसहस्रप्राणचारास्तत्रैव षष्ट्यब्दोदय इति स्वयमूह्यम्।