पृष्ठम्:श्रीपरात्रिंशिका.pdf/४०

पुटमेतत् सुपुष्टितम्
१०
परात्रिंशिका ।

र्यम् । 'स्वप्तोऽहं किल विललाप' इति हि एव- मेव उपपत्तिः । तथाहि-ताम् अतीतामवस्थां न स्मरति प्रागवेद्यत्वात् , इदानीं पुरुषान्तर- कथितमाहात्म्यात् अतिविलापगानादिक्रिया- जनितगद्गदिकादिदेहविक्रियावेशेन वा तदव- स्थां चमत्कारात् प्रतिपद्यते; नहि अप्रतिपत्ति- मात्रमेव एतत् 'मत्तः सुप्तो वा अहं किल विललाप' इति मदस्वप्नमूर्छादिषु हि वेद्यवि- शेषानवगमात् परोक्षत्वं, परावस्थायां तु वेद्य- विशेषस्य अभाव एव,-इति केवलमत्र वेद- कतादात्म्यप्रतिपत्त्या तुर्यरूपत्वात् , मदादिषु तु मोहावेशप्राधान्यात्-इति इयान् विशेषः, परोक्षता तु समानैव । एवं सर्व एव प्रमाता गुरुशिष्यादिपदे अन्यत्र वा व्यवहारे स्थितः, सर्वकालमेव यत्किंचित् कुर्वाणः एनामेव संवि- दमनुप्रविश्य सर्वव्यवहारभाजनं भवति, अतः तामेव वस्तुतो विमृशति देवी, 'उवाच' इति यावदुक्तं स्यात्, अहमेव सततं सर्वमभेदेन