पृष्ठम्:श्रीपरात्रिंशिका.pdf/४१

पुटमेतत् सुपुष्टितम्
११
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेतः


विमृशामि पराभूमौ, अन्यथा पश्यन्तीमध्यमाभूमिगं स्फुटमिदं प्रथनं न स्यात् , तावदेव उक्तं भवति 'देवी उवाच' इति । एवमेव पुरस्तात् 'भैरव उवाच' इति मन्तव्यम् । तत्रापि हि स्वपरशक्त्यविभागमयो भैरवात्मैव अहमुवाच-इत्यर्थः। केवलं शक्तिप्रधानतया सृष्टिस्वभावाख्यामर्शे 'अहम्' इति उचितो देवीपरामर्शः, शक्तिमत्प्रधानतया संहारावेशविमर्शे 'महअ' इति भैरवरूपचमत्कारः । स्फुटयिष्यते च एतत् । एतच्च३५ पश्यन्तीमध्यमाभुवि ज्ञानशक्तिमय्यामेव परस्या इच्छाशक्तिमय्याः संविदो विमर्शनं, तदेव च सर्वारम्भपर्यन्तशास्त्रप्रयोजनम् ; अत एव ज्ञानशक्तावेव सदाशिवमय्यां पूर्वोत्तरपदवाक्यक्रमोल्लासात् वास्तवपरमहामन्त्रवीर्यविमर्श एव दकार-एकार-वकार-यकार-उकार-वकार-आकार-चकार, -भकार-ऐ-


३५ पूर्वोक्तं सर्व संगृह्य आह एतच्चेति ।


पं० १३ घ० पु० सदाशिवशक्तिमय्याम् इति पाठः ।