पृष्ठम्:श्रीपरात्रिंशिका.pdf/४४

पुटमेतत् सुपुष्टितम्
१४
परात्रिंशिका


त्तराहंभावसाराकाराकाररूपशिव-शक्तिसंघट्टसमापत्तिक्षोभात्मकं त्रिकशास्त्रप्रसरवीजं ध्रुवपदं मौलिकं सर्वजीवतां जीवनैकरूपम्, अत एव व्यवच्छेदाभावात् स्थाननिर्देशाद्ययोगात्४० स्थानादिपूर्वकत्वं नोपपन्नम् । वस्तु च प्रश्नतदुत्तररूपं सततोदितमेव प्रथममविभागमयम् , तेन एतावदेव अत्र तात्पर्यम्-स्वात्मा सर्वभावस्वभावः स्वयं प्रकाशमानः स्वात्मानमेव स्वात्मा-


४० ननु च इत्थं हि परतन्त्रनीतिः, यत् आदौ कश्चित् भक्तोऽनुग्राह्यजनावेदनपूर्वकं देवीभैरवयोः स्थाननिर्देशं करोति, यथा, स्वच्छन्दादौ कैलासशिखरासीनमित्यादि, इहापि तत् अत उचितमेव इति किं न कृतम् ? अत एवाह व्यवच्छेदाभावादित्यादि । न च एतत् स्थानादिकथनं स्थूलपक्षे एव युज्यते नान्तारूपतायाम् इति मन्तव्यम् । कैलासेत्यादावपि सूक्ष्मार्थस्यैव कथनीयत्वात्, तथाहि-के मूर्धन्ये ब्रह्मबिले, एला स्फुरन्ती शक्तिः, तस्याम् आसः आसनम् उपरिस्थितिः यस्य व्यापिनीसमनात्मनः शिखरस्य सर्वाध्वोपरिवर्तिनः पदस्य तत् कैलासशिखरं, तत्र आसीनं तदुत्तीर्णं प्रकाशतत्त्वमिति ॥


पं० १ घ० पु० अहंभावाकारेति पाठः। क० पु० रूपविमर्शशिवेति पाठः ।

पं० ३ क० पु० सर्वं जीवतां जीवैकेति पाठः ।

पं० ६ क० पु० तेनैव तावदेवेति पाठः ।

पं० ८ क० घ० पु० स्वयं प्रथमान इति पाठः ।