पृष्ठम्:श्रीपरात्रिंशिका.pdf/४५

पुटमेतत् सुपुष्टितम्
१५
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेतः


विभिन्नेन प्रश्नप्रतिवचनात् [नेन] प्रष्ट्टप्रतिवक्तृस्वात्ममयेन अहन्तया चमत्कुर्वन् विमृशति,-इति अहमेव एवं-विचित्रचमत्कारेच्छुः तथा जानन्नेव तथैव भवामि-इति यावत् तावदेव 'देवी उवाच, अनुत्तरं कथम्' इत्यारभ्य 'भैरव उवाच, शृणु देवि' इति मध्यतो यावत् 'इत्येतद् रुद्रयामलम्' इति । यद्वा सर्वाणि पञ्चस्रोतःप्रभृतीनि शास्त्राणि यावत् लौकिकोऽयं व्यवहारः, स एष उक्तः परः संबन्धः।

गोप्यमुपदेशसारं सद्यो भैरवपदावहं सततम् ।
अभिनवगुप्तेन मया व्याख्यातं प्रश्नसर्वस्वम् ।।

शिष्यहितपरतया तु इदमेव संगृह्य अभिदध्मः।

सर्वेषु व्यवहारेषु ज्ञेयं कार्यं च यद्भवेत् ।
तत्परस्यां तुर्यभुवि गतभेदं विजृम्भते ॥
भेदासूत्रणरूपायां पश्यन्त्यां क्रमभूजुषि ।
अन्तःस्फुटक्रमायोगे मध्यायां तद्विभेदभाक् ॥


पं० ३ क० पु० एवंविधचित्रेति, ख० घ० पु० एवं-वैचित्र्येति पाठः ।

पं० १५ घ० पु० तदासूत्रणेति पाठः ।

पं० १६ घ० पु० क्रमायोगः इति पाठः ।