पृष्ठम्:श्रीपरात्रिंशिका.pdf/४७

पुटमेतत् सुपुष्टितम्
१७
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेतः


सृष्ट्याद्युद्योगादिनामान्तरनिर्वाच्यानाम्४२ ईशिका ईश्वरी, ईशना च ईशितव्याव्यतिरेकेणैव४३ भाविनी,-इति एतच्छक्तिभेदत्रयोत्तीर्णा तच्छत्यविभागमयी संविद्भगवती भट्टारिका परा अभिधेयम् , तद्योगादेव च इदमभिधानं त्रीशिकाख्यम् । 'त्रिंशका' इत्यपि गुरवः पठन्ति, अक्षरवादसाम्यात् च निरुक्तमाहुः-तिस्रः शक्तीः कायति-इति त्रिंशका, न तु त्रिंशच्श्लोकयोगात् त्रिंशिका; एतावतोऽपि४४ त्रिंशकार्थत्वात् । तथाहि श्रीतन्त्रसारे

'त्रिंशकार्थस्त्वया प्रोक्तः सार्धकोटिप्रविस्तरः।'

इति । अभिधानाभिधेययोश्च पर एव संबन्धः तादात्म्यात्-इति उक्तप्रायम् । प्रयोजनं च स-


४२ सृष्टिस्थितिसंहारतिरोधानानुग्रहाः सृष्ट्यादयः, तथा उद्योगादयः उदयावभासचर्वणकालग्नासस्वरूपविश्रान्तयः, इत्यादिनामान्तरैर्निर्वक्तुमर्हाणाम् इति ।

४३ कर्मांशानुप्रवेशयोगात् तदव्यतिरेकित्वम् ।

४४ एतावत इति सशतसहस्रद्वयसंख्याकस्य इत्यर्थः ।


पं० ७ घ० पु० अक्षरवर्णसाम्यात् इति पाठः ।