पृष्ठम्:श्रीपरात्रिंशिका.pdf/४८

पुटमेतत् सुपुष्टितम्
१८
परात्रिंशिका


र्वप्रमातॄणां विभोः परशक्तिपातानुग्रहवशोत्पन्नैतावदनुत्तरज्ञानभाजनभावानाम् इत्थं निजस्वरूपहृदयङ्गमीभावेन निजामोदभरक्रीडाभासितभेदस्य निखिलबन्धाभिमततत्त्वव्रातस्य स्वात्मचमत्कारपूर्णाहन्तातादात्म्यभैरवस्वरूपाभेदसमावेशात्मिका जीवत एव मुक्तिः। प्राणदेहादिभूमावेव हि अन्तर्बहिष्करणविषयायां प्रेरणाख्यायाम् उद्योगबलजीवनादिरूपायां रूढस्य बन्धाभिमतेभ्यो मुक्तिः, -इति गीयते । त्रुटितेऽपि हि मायीये संस्कारमात्रे केयं मुक्तिवाचोयुक्तिः, किमपेक्षया वा?, इति तदुक्तं श्रीस्पन्दे

'इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् ।
स पश्यन् सततं युक्तो जीवन्मुक्तो न संशयः॥'

इति। स्फुटीभविष्यति च एतत् अविदूर एव ।

'जहि जहि धावइ जंकुण तहि तहि बिअविअकाउ ।
अच्छन्त उपरिउणबिअपाय इहलइफलसिवणाओ॥'


पं० १६ घ० पु० बिओल इति पाठः ।

पं० १७ घ० पु० उस्मबिअपावा इति पाठः । तथा फलमिवणाओ इति पाठः।