पृष्ठम्:श्रीपरात्रिंशिका.pdf/५०

पुटमेतत् सुपुष्टितम्
२०
परात्रिंशिका

परात्रिंशिका धाम्न उल्लास्यप्रश्नप्रतिभानादिपात्रं भवति शिष्यः, तदेव वस्तुतः तत्वं सततोदितम् ,- इति किमिव प्राचार्यांयमुत्तरमन्यत् स्यात् । उत्तरणम् उत्तरो भेदवादाभिमतोऽपवर्गः, स हि वस्तुतो नियतिप्राणतां नातिक्रामति । तथाहि प्रथमं शरीरात् प्राणभूमावनुप्रविश्य , ततोऽपि बुद्धिभुवमधिशय्य, ततोऽपि स्पन्द- नाख्यां जीवनरूपतामध्यास्य, ततोऽपि सर्ववे- द्यप्रक्षयात्मशून्यपदमधिष्टाय, ततोऽपि सकल- मलतानवतारतम्यातिशयधाराप्राप्तौ शिवत्व. व्यक्त्या अणुरपवृज्यते आरोपव्यर्थत्वात्-इति। ईदृश एव नाभिहत्कण्ठतालुव्राह्मभैरववि-


पं० १ कपु० उल्लाप्य इति, ग• पु० उल्लासस्य इति पाठः। पं०२ क. पु. तदैव इति पाठः। पं. ३ ख. पु० किं वाचा-यम् इति पाठः । पं०५ ङ. पु. नियतप्राणतामिति पाठः । पं०८ ङ० पु. जोवरूपतामिति पाठः । ६०११ घ. पु. व्यर्थात् अणोरपवृज्यते इति पाठः ।