पृष्ठम्:श्रीपरात्रिंशिका.pdf/५१

पुटमेतत् सुपुष्टितम्
२१
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेतः

लाद्यधिष्ठानक्रमप्राप्त ऊर्ध्वत[१]रणक्रम उत्तरः , तथा उत्तरन्ति अत इति उत्तरो बन्धः, उत्तरणमुत्तरो मोक्षः , तत् एवं-विधा उत्तरा यत्र न सन्ति; उत्तरं च शव्दनं तत् सर्वथा 'ई[२]दृशं तादृशम्' इति व्यवच्छेदं कुर्यात्, तत् यत्र न भवति अव्यवच्छिन्नम् इदम् अनुत्तरम् । इदम् इत्यपि हि व्यवच्छिन्नोत्तरव्यवच्छेदप्राणमेव,-इति व्यवच्छेदकत्वात् विक-


तथा सृष्टिक्रमेण तन्त्रालोके

संविन्मात्रं हि यच्छुद्धं प्रकाशपरमार्थकम् ।
तन्मेयमात्मनः प्रोज्भ्य विधिक्तं भासते नमः ॥
स एव खात्मा मेयेऽस्मिन् भेदिते स्वीक्रियोन्मुखः ।
पतन् समुच्छलत्त्वेन प्राणस्पन्दादिसंज्ञितः ॥
तेनाहुः किल संचित् प्राक् प्राणे परिणता तथा ।
अन्तःकरणतत्त्वस्य वायुराधारतां गतः ॥
इयं सा प्राणनाशक्तिरान्तरोद्योगदोहदा ।
स्पन्दः स्फुरत्ता विश्रान्तिर्जीवो हृत् प्रतिभा मता।
सा प्राणवृत्तिः प्राणायै रूपैः पञ्चभिरात्मसात् ।
देहं यत् कुरुते संचित्पूर्णस्तेनैप जायते ॥

इति । इथं यथाप्रस्रुति लयभावनया ऊर्ध्वक्रमणम् ॥


पं० ८ घ० पु० च्छेदे प्राणमिति पाठः ।


  1. ४७
  2. ४= ईदृशमिति प्रत्यक्षतया व्यवच्छेदः तादृशमिति परोक्षतया व्यवच्छेदः इति ।