पृष्ठम्:श्रीपरात्रिंशिका.pdf/५२

पुटमेतत् सुपुष्टितम्
२२
परात्रिंशिका।

ल्पात्मैव, त्र्प्रत एव यावदनुत्तरे रूपे प्रविविक्षुः मायीयः प्रमाता तावत् कल्पित एव विशेषात्मनि, तत्र तु अविकल्पितं यत् अविनाभावि तद्विना कल्पितरूपास्फुरणात्, तदेव वस्तुतोऽनुत्तरम् । तत्र हि भावनादेः अनुपपत्तिरेव वस्तुतः,- इति भावनाकरणोज्झितत्वमु[१]क्तं, नतु अनुपयुक्तित एव, तत् ईदृशमनुत्तरं व्यवहारवृत्तिष्वपि एवमेव-इति । तदुक्तं मयैव स्तोत्रे

'वितत इव नभस्यविच्छिदैव
प्रतनु पतन्न विभाव्यते जलौघः।


पं० घ० पु० श्रनुत्तररूपे इति पाठः ।


  1. ४६ यथा श्रीसोमानन्दपादैः

    'भावनाकरणाभ्यां किं शिवस्य सततोदिते:।
    सकृज्ज्ञाते सुवर्णे किं भावनाकरणादिना ॥
    सर्वदा मातृपित्रादितुल्यदार्ढ्येन सत्यता ।
    एकवारं प्रमाणेन शास्त्राद्वा गुरुवाक्यतः ॥
    ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्या दृढात्मना ।
    करणेन नास्ति कृत्यं क्वापि भावनयापि वा॥'

    इति ॥