पृष्ठम्:श्रीपरात्रिंशिका.pdf/५३

पुटमेतत् सुपुष्टितम्
२३
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेतः

उपवनतरुवेश्मनीध्रभागा-
द्द्धयुपधिवशेन तु लक्ष्यते स्फुटं सः ॥
.........................
...........................
....तद्वत् परभैरवोऽतिसौक्षम्याद्
अनुभवगोचरमेति नैव जातु ॥
अथ देशाकृतिकालसन्निवेश-
स्थितिसंस्पन्दितकारकत्वयोगाः।
जनयन्त्यनुभाविनीं चितिं ते
झटिति न्यक्कृतभैरवीयवोधाः ।।'

इत्यादि। तथा च वक्ष्यते 'उत्तरस्याप्यनुत्तरम्' इति। व्याख्यायते च एतत् । एवमेव नरात्मनः शाक्तमुत्तरं ततोऽपि शाम्भवं, तथा तेष्वपि भूततत्त्वात्ममन्त्रेश्वरशक्त्यादिभेदेन स्वात्मन्येव उत्तरोत्तरत्वं, भूतादिष्वपि पृथिव्यादिरूपतया,जाग्रत उत्तरं स्वप्नः, ततः सुप्तं ततस्तुर्यं ततोऽपि तदतीतं; जाग्रदादिष्वपि स्वात्मन्येव चतुरादिभेदतया उत्तरोत्तरत्वम् । तदेतत् श्री-


पं० १४ घ० पु० व्याख्यास्यते चेति पाठः ।

पं० १८ क० ग० पु० भेदतयोत्तरस्वम् इति घ० पु. तदेव पूर्वेति पाठः ।