पृष्ठम्:श्रीपरात्रिंशिका.pdf/५४

पुटमेतत् सुपुष्टितम्
२४
श्रीपरात्रिंशिका

पूर्वपञ्चिकायां मयैव विस्तरतो निर्णीतम् इह अनुपयोगात् ग्रन्थगौरवात् च न वितत्य उक्तम् । तत् ईदृशमौत्तराधर्यद्वैतसंमोहाधायि उत्तरत्वं, तथा विप्रराजन्यवैश्यशूद्रान्त्यजातिविभागमयम् ऊनाधिकत्वं यत्र न स्यात् , भावप्राधान्यमुत्तरशब्दस्य। उत्तराः पश्यन्त्याद्याः शक्तयः, अघोराद्याः, पराद्याः[१] ता यत्र न स्युः, 'नुद प्रेरणे' इत्यस्य नोदनं नुत्, तया तरणं दीक्षाक्रमेण तरः शिष्यचैतन्ये गुरुः चैतन्यं


५०परसूक्ष्मस्थूलरूपतया पश्यन्ती मध्यमा वैखरीति व्यवस्थिताः एतेन च क्रमेण इच्छाज्ञानक्रियारूपाः शक्तयः । अधिष्ठातृलक्षणा अघोर-घोरा-घोर-घोराश्च शक्तयः। परादिस्वरूपं यथा अन्यत्र-यया इदं शिवादिधरण्यन्तम् अविकल्पसंविन्मात्रतया बिभर्ति च पश्यति च भासयति च परमेश्वरः सा अस्य पराशक्तिः । यया दर्पणहस्त्यादिवत् भेदाभेदाभ्यां सा परापरा, यया परस्परविविक्ततया भेदेन सा अपरा । एतत् त्रितयं यया आत्मनि क्रोडीकारेण अनुसंधानात्मना ग्रसते सापि परैव कालकर्षिणी- शब्दान्तरनिर्दिष्टा इति ।



पं० ३ १० पु० धर्ये द्वैतेति पाठः । ख० पु० संमोहशायि इति पाठः ।

पं० ४ ख. पु० तत्तथेति, घ० पु० विट्शूद्रेति पाठः ।

पं० ६ घ. पु० पश्यन्त्यादय इति पाठः ।


  1. ५०