पृष्ठम्:श्रीपरात्रिंशिका.pdf/५५

पुटमेतत् सुपुष्टितम्
२५
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेतः

प्रेर्यते[१] तेन हंसप्राणादिशून्यविषुवत्प्रभृतिस्थानभेदपरिपाट्या सकले निष्कलेऽपि वा पूर्णाहुतियोजनिका[२]दिस्थित्या मोक्षदां दीक्षां विधत्ते; तत् अत्र चैतन्यस्य स्वप्रकाशस्य व्यापिनो देशकालाकारविशेषाविशेषितस्य कथंङ्का[३]रम् इमा विडम्बनाः? । तत् एवंविधो 'नुदा' प्रेरणेन 'तरः' तरणं यत्र न भवति तत् अनुत्तरम् । यत् वक्ष्यते

एवं यो वेत्ति तत्त्वेन तस्य निर्वाणगामिनी ।
दीक्षा भवति..........….....…

इति।अनिति श्वसिति इति क्विपि अन्-अणुः आत्मा देहपुर्यष्टकादिः, तथा अननं जीवनम्


पं० १० क० पु० क्विप् अनुत्तरात्मेति पाठः ।


  1. 'आत्मनो ग्रहणं कुर्याद्दीक्षाकाले गुरुर्धिया ।’ इति नीत्या अप्रबुद्धे शिष्यचैतन्ये स्वकीयं प्रबुद्धं चैतन्यं प्रेर्यते इति ।
  2. योजनिकेति, यथोक्तं तन्त्रसारे 'तत्त्वशुद्धि-शिवयोजनारूपा दीक्षा' इति ।
  3. अत्र क्रमेण हेतुपूर्वः संबन्धः कार्यो, यथा-यत आकारावि शेषितः कथं सकले निष्कले वा इति, यतो व्यापी कथं योजनं, यतो देशकालाविशेषितः कथं मोक्षदां दीक्षां विधत्त इति, यतश्च स्वप्रकाश: स्वतन्त्रश्च कथं विधानं तत्र संभवेत् । तत्र भोगमोक्षप्राप्त्यर्थं सकलनिष्कलयोगः केवलं मोक्षप्राप्यर्थं निष्कल एवेति दीक्षाक्रमः।