पृष्ठम्:श्रीपरात्रिंशिका.pdf/५६

पुटमेतत् सुपुष्टितम्
२६
परात्रिंशिका

अन् देहाद्यन्तर्गतैव भिन्नभिन्नशक्त्याद्यहन्ताशून्यप्राया जीवनाख्या वृत्तिः, यः शून्य[१]प्रमाता इति अभिहितः, तस्यैव उत्तरत्वं सर्वतः परमार्थतया आधिक्यं यत्र-भैरवैकमयत्वात्; जडाजडभरिते जगति जडैः जीवदेकमग्नैः स्थी५६[२]स्त्गूयते


पं०१ क० ख० पु० भिन्नशक्त्यादीति पाठः ।


  1. ५५यन्नाम हि इदं मातृमानमेयत्रयात्मविश्वाभेदेन अवभासमानं प्रकाशतत्त्वम् इच्छादिशक्त्यविशेषितं तदेव स्वस्वातन्त्र्यात् स्वात्मनि स्वाविभागनावस्थितं विश्वात्ममेयमवबिभासयिषया आत्मनः पृथक्कृत्य सर्वस्मात् उत्तीर्णोऽहम् इत्यामर्शनेन सकलभावशून्यत्वात् निरावरणरूपतया शून्यप्रमाता इत्यागमेषु आम्नातः । शून्यत्वं चात्र सकलभावक्षयात् न तु संविदोऽपि, तथात्वे च सर्वमनेलमूकं स्यात् । उक्तं च अन्यत्र

     'सर्वालम्बनधर्मेश्च सर्वतत्त्वैरशेषतः ।
     सर्वक्लेशाशयैः शून्यं न शून्यं परमार्थतः ॥'

    इति ।

  2. अत्रायं भावः घटो मम स्फुरतीति कोऽर्थः मदीयं स्फुरणं स्पन्दनमाविष्टो मद्रूपतामापन्न एव चिन्मयत्वात् । उक्तं च श्रीमदुत्पलदेवप्रभुपादैः

     'एवमात्मन्यसत्कल्पाः प्रकाशस्यैव सन्त्यमी ।
     जडा:.......................................................॥'

    इति । येऽपि अन्ये जडेभ्योजीवन्त इति प्रसिद्धाः तेषामपि शरीरप्राणपुर्यष्टकशून्याकारास्तावत् जडा एवेति तेषामपि किमुच्यते, एवं च सति घटशरीरप्राणपुर्यष्टक-सुख-तदभावरूपं सत् यल्लग्नं भाति तदेव जीवरूपभूतं सत्यम् । तथा ईश्वरप्रत्यभिज्ञायाम्

     'तथाहि जडभूतानां प्रतिष्टा जीवदाश्रया ।'

    इति ।