पृष्ठम्:श्रीपरात्रिंशिका.pdf/५७

पुटमेतत् सुपुष्टितम्
२७
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

जीवतां च जीवनं नाम प्रागुक्तं ज्ञानक्रियारूपमेकं पारमेश्वर्यं सर्वेषां, परत्रापि हि स्ववत् देहा</ref>दिरेव पृथक्तया भाति । यत् पुनः प्राणनं तत् अभेदेनैव स्वप्रकाशम्, एतदेव च परमार्थः । यदुक्तं श्रीमदुत्पलदेवपादैः

'ज्ञानं क्रिया च भूतानां जीवतां जीवनं मतम् ।'

इति । तथा च जीवनं ज्ञानक्रिये एव इति। 'अ' इति च या इयम् अमायीयाश्रौतनैसर्गिकमहाप्रकाशविश्रान्तनिस्तरङ्गचिदुदधिखात्मचमत्काररूपा शाक्तोल्लासमयविश्वामर्शनरूपपरिपूर्णाहंभाव प्रथमपर्यवसानोभय [१]५८गा कला तस्या एवं वक्ष्यमाणनयेन याइयं 'नुत्' विसर्गान्तता तस्या एव 'तरः'प्लवनं-सर्वोपरि-


५७अजीवन्त इति जीवन्त इति च आपात एवाभाति न तु संविद्रूपे इत्यर्थः ।

५८ शाक्तोल्लासमयी प्रथमभूमिः-अहमिति, विश्वामर्शमयी पूर्णाहंभावभूमिः पर्यवसानभूमिरित्यर्थः ।


पं० १ ख० पु० जीवानां चेति पाठः।

पं० ८ ख० पु० इयं मायीयेति पाठः ।

पं० १३ क० पु० विसर्गान्ता इति पाठः ।


  1. भूमि