पृष्ठम्:श्रीपरात्रिंशिका.pdf/६०

पुटमेतत् सुपुष्टितम्
३०
परात्रिंशिका

द्विवचनविभज्योपपदार्थः, एक एव हि प्रतियोगी भवेत्, अनयोः अयं शुक्लोऽतिशयेन इति न तृतीयः प्रतीयते, निर्धारणार्थेन प्रथमस्यैव प्रतियोगित्वावगतेः। न च द्विप्रभृत्यपेक्षा भवति एकस्य युगपत् एकैकापेक्षा मता-इति तस्य क्रमेण नाधिकोऽर्थः कश्चित् । 'तारतम्यम्' इति तु प्रयोगः क्रमातिशयेऽव्युत्पन्न एव रूढः, न तु तरप्-तमप्प्रत्ययार्थानुगमात् 'तार्यं ताम्यम्' इत्याद्यपि हि स्यात् । तदलम् अकाण्डे श्रुतलवकौशलप्रथनेन। इह तु उत्तरक्रमिकप्रतियोग्यपेक्षायां 'अनुत्तमम्' इत्यपि प्रयोगे अयमेव अर्थः। तथाहि आगमान्तरे

'अद्यापि यन्न विदितं सिद्धानां बोधशालिनाम् ।
न चाप्यविदितं कस्य किमप्येकमनुत्तमम्[१]मम्।।'


पं० ६ क० पु० अधिकार्थ इति पाटः ।

पं० १० ख० पु० हेतूत्तर इति पाठः।

पं० ३५ घ० पु० योगशालिनामिति पाठः :

पं० १४ घ० पु० किमप्येतदिति पाठः ।

  1. अद्यापति सम्यक्प्रकाशसमापत्तौ सिद्धानामिति परशक्तिपातवशोन्मिपितगुरुशास्त्रसंप्रदायानाम् अत एव बोधशालिनां स्वातन्त्र्याख्यबोधमूलविमर्शशालिनां यन्न विदितं स्वयमेव तथाधाराधेयाभयस्वरूपत्वात् वेद्यतया न ज्ञातम् ,तथा कस्यापि सामान्यजनस्य, न च अचिदितं तेन विना कस्यापि सिद्धयनुपपत्तेः ज्ञातमेच ज्ञानार्हम् अत एव आपाते विरोधिरूपस्वात्, किमपीति-सर्वोत्कृष्टमित्यर्थः ।