पृष्ठम्:श्रीपरात्रिंशिका.pdf/६२

पुटमेतत् सुपुष्टितम्
३२
परात्रिंशिका

इति । तथा

'हृदये यः स्थितो ग्रन्थिः………………।'

इत्यादि । तत् ईदृक् अनुत्तरं केन प्रकारेण किमुत्तररूपपरित्यागेन उत स्वित् अन्यथा?-इ[१]ति । कश्च अयं प्रकारः-यदनुत्तरं स[२]र्वमिदं हि ज्ञानज्ञेयजातं सर्वत एव अन्योन्यं भेदमयं विरोधमुपलभते, ततश्च इदम् औत्तराधर्यं भवेदेव-इति कस्मिंश्च प्रकारे मोक्षे एव किं वा वन्धाभि[३]मतेऽपि?--इति थमुप्रत्ययस्य विभक्तिविशेषार्थानियमेन प्रकारमात्रे विधानात् प्रकारमात्रविषय एव अयं प्रश्नः। 'देव' इति व्याख्यातम् ।कुलं स्थूलसूक्ष्मपरप्राणेन्द्रियभूतादि-समूहात्मतया, कार्यकारणभावात् च । यथोक्तम्


पं० १० क. पु० प्रकारमात्रे नियमादिति पाठः ।


  1. सामान्यविच्छेदको विशेषः प्रकारः । उत्तररूपेति विश्वोत्तीर्णस्वरूपेण, अन्यथेति विश्वमयस्वरूपेण स्वीकारात् ।
  2. ज्ञानज्ञेयभेदेन द्विधैव जगत् ।
  3. किं मुक्तावेव ईदृशमनुत्तरस्वरूग्मुपलभ्यते किंवा बन्धाभिमते संसारेऽपि इति अपिशब्दस्यायं भावः, यत् 'संसारोऽस्ति न तत्त्वतः' इति प्रोक्त नीत्या वस्तुतोऽसंभवी संसारो मोहनीशक्तिवशाद्धन्धतयाभिमतोऽपि इति ।