पृष्ठम्:श्रीपरात्रिंशिका.pdf/६३

पुटमेतत् सुपुष्टितम्
३३
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता


 संहत्यकारित्वात् ( )

इति । तथा कुलं बोधस्यैव आश्या[१]नरूपतया यथावस्थानात् बोधस्वातन्त्र्यादेव च अस्य बन्धाभिमानात् । उक्तं हि 'कुल संस्त्याने बन्धुषु च' (धा. भ्वा. प.) इति । नहि प्रकाशैकात्मकबोधैक[२]रूपत्वात् ऋते


पं० २ ख० पु० बोधरूपत्वादिति पाठः ।


  1. शिवात्मा खलु प्रकाश: शक्तिसदाशिवादिपरिपाट्यनुसारेण भूतपञ्चकपर्यन्तः स्त्यानीभवति वेदितृस्वभावन्यग्भावात् वेद्यतोत्कर्षात्मकं काठिन्यं स्त्यानीभवनं, तथा च सति तदेव स्वात्मनि बन्धतयाभिमन्यते पशुजन इति। आश्यानतायामपि न स्वस्वरूपं कदाचित् परित्यजति हिममिव जलत्वमित्याह नहीत्यादिना । उक्तं च महार्थमञ्जर्याम्

    'स्त्यानस्य क्रियावशादिक्षुरसस्येव शिवप्रकाशस्य।
    गुडपिण्डा इव पञ्चापि भूतानि मधुरतां न मुञ्चन्ति ॥'

    इति ।

  2. बोधैकरूपत्वादिति विशुद्धचिन्मयप्रमात्रैकात्म्यमनुज्झतामेव भावानां प्रकाश उपपद्यते, तेन ज्ञानशक्तिमूलत्वात् स्मरणविकल्पादीनामपि इत्थमेव मन्तव्यम् । उक्तं चेश्वरप्रत्यभिज्ञायाम्

    'वर्तमानावभासानां भावानामवभासनम् ।
    अन्तःस्थितवतामेव घटते बहिरात्मना ॥'

    इति ।