पृष्ठम्:श्रीपरात्रिंशिका.pdf/६४

पुटमेतत् सुपुष्टितम्
३४
परात्रिंशिका

किमपि एषामप्रका[१]शमानं वपुरुपपद्यते, तत्र कुले भवा कौलिकी सिद्धिः-तथात्वदार्ढ्यं परिवृत्त्य आनन्दरूपं, हृद[२]यस्वभावपरसंविदात्मकशिवविमर्शतादात्म्यं, तां सिद्धिं ददाति अनुत्तरस्वरूपतादात्म्ये हि कुलं तथा भवति। यथोक्तम्

'व्यतिरेकेत[३]राभ्यां हि निश्चयोऽन्यनिजात्मनोः।
व्यवस्थितिः प्रतिष्ठाथ सिद्धिर्निर्वृत्तिरुच्यते ॥'

इति । सद्य इति शब्दः समाने अहनि इत्यर्थवृत्तिः उक्त[४]नयेन अहोऽनवस्थितत्वात् समाने


पं० ३ ख० घ० पु० दाढ्यै परनित्यानन्देति प्रथमपाठः, शोधितस्तु परवृत्त्यानन्देति पाठः ।


  1. अप्रकाशमानमिति नीलादेरर्थजातस्य नीलादिरूपतैव यदि प्रकाशमानता न पुनरर्थशरीरोत्तीर्णा प्रकाशमानता तर्हि यथा ज्ञानानुत्पादे सर्वान् प्रति तन्नीलमेव भण्यते न कंचिद्वा प्रति वस्तुतो वा स्वात्मन्येव तन्नीलं परस्य परनिष्ठतानुपपत्ते: स्वात्मन्यपि वा न नीलं नापि अनीलं प्रकाशानुग्रहेण विना व्यवस्थानायोगात्, तथा अप्रकाशमानतापि इति अप्रकाशमानताप्रसङ्गोपरतिः ।
  2. हृदयस्वभावेति स्पन्दस्वभावः ।
  3. स्वसत्तायामन्याभावः, अन्याभावे स्वस्य भाव इति व्यतिरेकान्वयौ।
  4. काल्पनिकं च अद्यतनत्वम् अकाल्पनिके संविद्वपुषि कथं स्यात् इत्युक्तो नयः।