पृष्ठम्:श्रीपरात्रिंशिका.pdf/६५

पुटमेतत् सुपुष्टितम्
३५
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

क्षणे इत्यत्र अर्थे वर्तते । समानत्वं च क्षणस्य न सादृश्यम्, अपितु तत्त्वपर्यवसाय्येव, एवमेव सद्यःशब्दात् प्रतीतिः। अतस्तस्मिन्नेव क्षणे इति वर्तमानक्षणस्य सावधारणत्वेन भूतभविष्यत्क्षणान्तरनिरासे तदुभयापेक्षकलनाप्राणां वर्तमानस्यापि कालतां निरस्येत, यतो यावदिदं परमेश्वरस्य भैरवभानोः रश्मिचक्रात्मकं निजभासास्फारमयं कुलमुक्तम् , तत् च एतत् अन्तर्मुखपरभैरवसंवित्तादात्म्यलक्षणं निरोधमेति, तदा तदेव परमानन्दामृतास्वादमयमदेशकालकलितम् अनुत्तरं ध्रुवं विसर्गरूपं सततोदितं। तदुक्तं श्रीवाद्यतन्त्रे

'संरु[१]ध्य रश्मिचक्रं स्वं पीत्वामृतमनुत्तमम् ।
कालोभयापरिच्छिन्नं वर्तमाने सुखी भवेत ॥'


पं० १४ ख० प० पु० कालोभयपरिच्छन्नं वर्तमानेति पाठः।


  1. एतदेव अत्र संरोधनं यत् नीलादेरर्थजातस्य आश्यानस्य देहप्राणादिप्रमातृताभिमानेन वेद्यतोत्कर्षात् तन्निमञनात् तस्यापि प्रकाशैकमग्नत्वमुक्तनयेन ।