पृष्ठम्:श्रीपरात्रिंशिका.pdf/६६

पुटमेतत् सुपुष्टितम्
३६
परात्रिंशिका

इति । विस्तारितश्च विस्तरतोऽन्यत्र मयैव कालोभयापरिच्छेदः। तथा कुलात् प्राणदेहादेः आगता सिद्धिः भेदप्राणानां नीलसुखादीना निश्चयरूपा तां ददाति इति-श[१]रीरादयो हि झगिति अनुत्तरध्रुवविसर्गवीर्यावेशेन अकालकलितेन प्राणादिमध्यमसोपानारोहेणैव भावानां तथात्वनिश्चयरूपां सिद्धिं विदधते। यथोक्तम्

'अपि त्वात्मबलस्पर्शात् पुरुषस्तत्समो भ[२]वेत्। (स्प०उ०१-८)

इति । तथा

...............…'करणानीव देहिनाम् । (स्प०उ०२-१०)

इति । तथा कुले शिवशक्त्यात्मनि संनिहितेऽपि सिद्धिरुक्तनयेन जीवन्मुक्ततामयी समभि-


पं० २ ख० घ० पु० भयपरीति पाठः

पं० १३ ख० ग० पु० मयीमभिलषितेति पाठः।


  1. यदेतत् संक्षेपेणोक्तं तदेव विवृण्वन् आह शरीरादयो हीत्यादि । अयमत्र भावः-यदाहुरन्ये धर्माधर्मसम्बन्धादेव सर्वो व्यवहारः, तेनैव इच्छागुणेन करणानि अचेतनान्यपि स्वस्वकार्येषु प्रवर्तन्ते न पुनस्तदधिष्ठानादिति शङ्का । झगितीति न तु इच्छादिव्यवधानेनेतिभावः ।
  2. परप्रमातुरनन्यापेक्षस्वातन्त्र्यलक्षणात् ईश्वरसमो भवतीति ।