पृष्ठम्:श्रीपरात्रिंशिका.pdf/६८

पुटमेतत् सुपुष्टितम्
३८
परात्रिंशिका

ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्या दृढात्मना ।
करणेन नास्ति कृत्यं क्वापि भावनयापि वा।'

इति । कु[१]ले जाता सिद्धिः शाक्त-हादिरूपप्रस रणात् आरभ्य बहिर्भावपटलविकासपर्यन्तं भेदावभासना तां ददाति, तदेव हि अनुत्तरं महाप्रकाशात्म अन्तःकृतबोधमयविश्वभावप्र सरम् अनुत्तरत्वादेव निरतिशयस्वातन्त्र्यैश्वर्यचमत्कारभरात् भेदं विकासयति । नहि अप्रकाशरूपं भावविकासप्रकाशे कारणं भवेत्, प्रकाशात्मकं चेत् नूनं तत् परमेश्वरभैरवभट्टारकरूपमेव-इति किम[२]परेण वाग्जालेन । तथा येन अनुत्तरेण विशेषेण ज्ञाता मात्रा मानेन प्रमात्मना त्राणं पालनं पतित्वं यासां प्रमातृप्रमाणप्रमेयप्रमितिरूपाणां ता मात्रा वि-


पं० ५ क० पु० भासनतामिति पाठः ।

  1. कुले शिवशक्तिसंघट्टात्मनि या विसिसृक्षा सैव अन्तःस्थितवती बहिरौन्मुख्यरूपा विसर्गलक्षणा शक्तिः ।
  2. अत्रायं मायाप्रकृतिपरमाणवादिः यदि प्रकाशरूपं तर्हि कृतं तदुक्त्या, यदि च न, तथापि अलब्धसत्ताकं स्वात्मनि कथं परत्र कारणतामियादिति ।