पृष्ठम्:श्रीपरात्रिंशिका.pdf/६९

पुटमेतत् सुपुष्टितम्
३९
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

ज्ञाता येन तत् विज्ञातमात्रं । तथा विशेषेण प्रतिपत्तिदार्ढ्यबन्धेन यत् ज्ञातं तत् विभातमेव, न पुनः भावनीयं सकृद्विभातात्मत्वात् । तथा ज्ञातमात्रं ज्ञातमेव ज्ञेयैकरूपत्वात्, न तु कदाचित् ज्ञातृरूपं घटादि, तथा ज्ञाता ज्ञेयरूपा भेदमयी इयं माया, तदुभयं विगतं यत्र तत् विज्ञातमात्रं, घटादयो यत्र ज्ञात्रेकरूपत्वेन स्वप्रकाशात्मानः, यत्र च माया न प्रभवति, तेन विज्ञातमात्रेण । खे ब्रह्मणि अभेदरूपे स्थित्वा चरति-विषयमवगमयति, तथा हानादानादिचेष्टां विधत्ते स्वरूपे च आस्ते इति खेचरी, अन्तर्बहिष्करणतदर्थसुखादिनीलादिरूपा, तथाहि वेद्यवेदकभावानुल्लासिपदे शून्ये संविन्मात्रदृगुल्लासे संवेद्यगतान्तरैक्यरूपदिश्यमानभेदोल्लासे स्फुटभेदोद्रेके च क्रमेण व्योमचरी-गोचरी-दिक्चरी-भूचरीभूता याः शक्तयः


पं० ५ क० पु० ज्ञातृज्ञेयरूपेति पाठः ।

पं० ७ घ० पु० रूपतयेति पाठः।

पं० १४ ख० पु० दिश्यमाने इति पाठः।