पृष्ठम्:श्रीपरात्रिंशिका.pdf/७०

पुटमेतत् सुपुष्टितम्
४०
परात्रिंशिका

ता वस्तुत उक्तनयेन स्वभावचरखेचरीरूपशक्त्यविभक्ता एव-इत्येकैव सा[१] पारमेश्वरी शक्तिः। यदुक्तम्

'शक्तयोऽस्य जगत् कृत्स्त्रं शक्तिमांस्तु महेश्वरः।'

इति । ततः स्त्रीलिङ्गेन निर्देशः, नहि आत्मनो मनसः इन्द्रियाणां बाह्यानां च भेदविषयस्य व्यवस्थापनं व्यवस्था च युज्यते-अभिसंधानाद्ययोगात् अप्रकाशत्वात् च, सैव खेचरी कामक्रोधादिरूपतया वैषम्येन लक्ष्यते, तस्याः समता सर्वत्रैव परिपूर्णभैरवस्वभावात् अणुमात्रमपि अविकलानुत्तरस्वरूपापरिज्ञानमेव चित्तवृत्तीनां वैषम्यं, स एव च संसा[२]रः


पं० ५ ख० पु० तत्र सीति पाठः ।


  1. सा हि परमेश्वरस्य स्वरूपादभिन्ना शक्तिरेकैव तात्त्विकी इदमिति परामर्शभेदमात्रजन्मना नानारूपविभक्तभावभेदेन अवभासमाना सती बहुत्वेनापि व्यपदेशमर्हतीति । शक्तिशब्देन च व्यक्तिव्यपदेशः, परमेश्वराच्छक्तिमतेा भेदाभावप्रतिपादनमेव प्रयोजनमिति ।
  2. संसारो गमनागमनादिरूपः। तदेव द्रढयति अपूर्णेति । अपूर्णाभिमननं द्विविधम् एकः प्रकाशस्य स्वातन्त्र्यहानिरूपः, द्वितीयः स्वातन्त्रया योधरूपः, तत्रैकत्वेन व्यपदेश: स्वस्वरूपापहानेरेकत्वात् ।