पृष्ठम्:श्रीपरात्रिंशिका.pdf/७१

पुटमेतत् सुपुष्टितम्
४१
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता अपूर्णाभिमानेन स्वात्मनि अणुत्वापादनात् आणवमलस्य, तदपूर्णरूपपरिपूर्णाका[१]ङ्क्षायां भेददर्शनात् मा[२]याख्यस्य मलस्य, तच्छुभाशुभवासनाग्रहेण कार्ममलस्य च उल्लासा[३]त्, स्वरूपापरिज्ञानम[४]यतद्वैषम्यनिवृत्तौ मलाभावात् क्रोधमोहादिवृत्तयो हि परिपूर्णभगवद्भैरवभट्टारकसंविदात्मिका एव । यदुक्तं श्रीसोमानन्दपादैः

......…उत्सरत्प्रकृतिः शिवः।’

इति । तथा

'सु[५]खे दुःखे विमोहे च स्थितोऽहं परमः शिवः।'

इति ।



पं.७ ख. ग. पु. भट्टपादैरिति पाठः ।


  1. ......…अभिलाषो मलोऽन्न तु ।' इति नीत्या ।
  2. 'भिन्नवेद्यप्रथात्रैव मायाख्यं जन्मभोगदम् ।
    कर्तर्यबोधे कामै तु मायाशक्त्यैव तत्त्रयम् ॥'

    इति ।
  3. इयत्पर्यन्तम् 'अणुमात्रमपि' इत्याद्येव उपोद्वलितम् सूक्ष्मेक्षिकावधार्यमेतत् ।
  4. तस्यानुत्तरस्य वैपम्यनिवृत्तौ त्रिलक्षणस्य मलस्याभावात् ।
  5. क्रमात् सत्वरजस्तमोगुणकार्ये ।