पृष्ठम्:श्रीपरात्रिंशिका.pdf/७२

पुटमेतत् सुपुष्टितम्
४२
परात्रिंशिका

'दुःखेऽपि प्रविकासेन स्थैर्यार्थे धृतिसंगमात् ।'

इत्यादि । क्रोधादिवृत्तयो हि चिच्चमत्कारतादात्म्यात् अन्यथा तत्स्वरूपलाभस्यैव अयोगाच्च, परमेश्वर्यः करणदेवता एव भगवत्यस्तास्ताः क्रीडा वितन्वत्यः शिवार्कस्य दीधितिरूपाः, तथा ता एव[१] तत्तत्परस्परसांकर्यल-ब्धासंख्येयरूपाः तत्तदुच्चाटन-मारण-शान्त्यादिरूपेषु कर्मसु परिकल्पिततत्तत्समुचितसौम्यरौद्रप्रकाराः कृत्या[२]दिभेदात् देव[३]तात्वेन उपास्या उक्ताः मतादिशास्त्रेषु भगवद्भैरवभट्टारकप-रिवारभूताश्च । यथोक्तम्


पं० १ ख. पु. धृतसंगमादिति, ग. पु. वृत्तिसंगमादिति च पाठः ।

पं. २ क. पु. चमत्कारदार्ढ्यादिति पाठः ।

पं. ४ ख. पु० एव भगवत्य इति वाक्यं नास्ति ।

पं. ९ क. पु. देवत्वेनेति, उपास्याः प्रसिद्धा उक्ता इति च पाठः ।

पं० १० क. पु. उक्ता उच्चाटनादिमतादि इति पाठः।


  1. आभ्यन्तरक्रोधादिवृत्तय एव ।
  2. 'वामा संसारवमनात्' इत्यादिः कृत्याभेदः स्वयमेवोह्यः।
  3. परिवारेति शक्तयः । यथोक्तम्

     'बहिर्मुखस्य मन्त्रस्य वृत्तयो याः प्रकीर्तिताः ।
     ता एवान्तर्मुखस्यास्य शक्तयः परिकीर्तिताः ॥'

    इति ।