पृष्ठम्:श्रीपरात्रिंशिका.pdf/७३

पुटमेतत् सुपुष्टितम्
४३
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता


'उच्चाटने काकवक्ता...........।’

इत्यादि उपक्रम्य

'ता एव देवदेवस्य रश्मयः कादिधारिकाः ॥'

इत्यादि । तथात्वेन तु अपरिज्ञातस्वरूपाः चिच्चमत्कारं विकल्पेऽपि निर्विकल्पैकसारं तेन तेन विचित्रवर्णाक्षरपुञ्जात्मना घोरतरात्मना विकल्परूपेण देवतात्मना शङ्कातङ्कानुप्रवेशेन तिरोदधत्यः सांसारिकपाश्यपशुभावदायिन्यः। यथोक्तम्

'पीठेश्वर्यो महाघोरा मोहयन्ति मुहुर्मुहुः ।'

इति । तथा

'विषयेष्वेव संलीनानधोऽधः पातयन्त्यणून् ।'

इत्यादि । तथा

'श[१]ब्दराशिसमुत्थस्थ शक्तिवर्गस्य भोग्यताम् ।
कलाविलुप्तविभवो गतः सन्स पशुः स्मृतः॥"


पं० १२ क० ख० पु० विषयेष्वपीति पाठः ।


  1. अकारादिः क्षकारान्तः शब्दराशिः। शक्तिवर्गस्य - कादिवर्गस्य, कलाभिः - ककाराद्यक्षरैः ।