पृष्ठम्:श्रीपरात्रिंशिका.pdf/७४

पुटमेतत् सुपुष्टितम्
४४
परात्रिंशिका


इति । ज्ञातस्वरूपाः ता एव उक्तयुक्त्या जीवन्मुक्तताप्र-दायिन्यः। तथा उक्तम्

'यदा त्वेक[१]त्र संरूढस्तदा तस्य लयोद्भवौ ।
नियच्छन् भोक्तृतामेति ततश्चक्रेश्वरो भवेत् ॥'

इति । स्वरूपपरिज्ञानं च एतावदेव-यत् एतासु वृत्तिषु[२] उद[३]यसमयनिर्विकल्पैकरूपासु विकल्पोऽपि उदयमानो वर्णराशिसमारब्धतत्तद्विचित्रशब्दारूषितत्वेऽपि न तादृशेन वर्णपुञ्जात्मना शक्तिचक्रेण युज्यते, यत् तस्य प्राक्तननिर्विकल्पैकव्यवहारमयस्य विकल्पात्मनो मा-


पं. ३ ख. पु. लयोदयाविति पाठः ।

पं. ८ ग. पु. वर्णात्मनेति पाठः ।

पं. ९ ख. पु. युज्यते यस्य प्राक्तनेति पाठः ।


  1. एकत्रेति सामान्यस्पन्दे । तस्येति कादिवर्गस्य । चक्रेति आदिहान्तस्य।
  2. वृत्तिषु - क्रोधादिषु ।
  3. यथोक्तम् '

    यदा समग्रज्ञानाग्रप्रज्ञातृस्पर्शदशास्वपि ।
    स्थितैव लक्ष्यते सा च तद्विश्रान्त्या तथा फले ॥'

    इति ।