पृष्ठम्:श्रीपरात्रिंशिका.pdf/७५

पुटमेतत् सुपुष्टितम्
४५
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

तुः स्वरूपं खण्डयेत् । न च विकल्पा अनुभवात् विकल्पान्तराद्वा भिन्नाः, अपि तु स एव एकः स्वातन्त्र्यभेदितभावोपरागलब्धभेदभृताद्यभिधविज्ञानचक्रप्रभुः, तदेवं खेचरीसाम्यमेव मोक्षः, तत् च अनु[१]त्तरस्वरूपपरिज्ञानमेव सततोदितं परमेश्वर्याः शिवात्मनि संघट्टसमापत्त्या उभयविमर्शानन्दरूढि । शिवो हि परवाङ्मयमहामन्त्रवीर्यविसृष्टिमयः परमेश्वरीविसृष्टया तद्वीर्यघनतात्मकप्रसूननिर्भर[२]या सृष्ट्याया युज्यते । तथा हि सर्वेषामन्तर्बहिष्करणा-


पं० ३ ग. पु. लब्धभेदाद्यभिधेति भूतशब्दहीना पाठः ।


  1. अनुत्तरेति, अयमत्राभिप्रायः-न चात्र एतन्मन्तव्यं यदि स्वरूपमेव मोक्षः तदलं खेचर्या, खेचरी हि शक्तिदशा आम्नायेषूक्ता, अनुत्तरस्वरूपं सर्वाध्वोपरिवर्त्तीति, यतोऽत्र अनुत्तरस्वरूपपरिज्ञानं मोक्षः, तच्च खेचर्यैव सूक्ष्मतमविमर्शरूपया सिदध्यतीति ।
  2. तस्य अनुत्तररूपस्य प्रकाशस्य वीर्ये परिस्फुरणं बाह्यवीर्ये च, तेन घनात्मकं तत्तादात्म्येन वर्तमानं च तत् प्रसूनं विश्वलक्षणमिदन्तास्फुरणं ब्राह्मप्रसिद्धं च तेन निर्भरया संकुलया सृष्ट्या तादृक्क्रियारूपया ।