नां यत् यत् अनुप्रविशति तत्तत् मध्यनाडीभुवि सर्वाङ्गानुप्राणनसारायां प्राणात्मना चेतनरूपेण आस्ते यत् ओज इति कथ्यते, तदेव सर्वाङ्गेषु अनुप्राणकतया तदविभक्तवीर्यरूपत्वेन ततोऽपि पुनरपि नयनश्रवणादीन्द्रियद्वारेण वृंहकरूपं रूपशब्दादि अनुप्रविशत् वृंहकत्वादेव तत् वीर्यक्षोभरूपकामानलप्रवोधकं भवति । यथोक्तम्
'आलापाद्गात्रसंस्पर्शात्....…………॥’ |
इत्यादि । एकेनैव च रूपाद्यन्यतमेन उद्रिक्तप्राक्तनवलोपवृंहितस्य सर्वविषयकरणीयोक्तक्षोभकरणसमर्थत्वं सर्वस्य सर्वस्य सर्वसर्वात्मक-
१ सर्वान्तरतमत्वेन वर्तमानत्वात् मध्यमिति
'यत्तत्र नहि विश्रान्तं तन्नभःकुसुमायते।' |
इति-वचनेनन, चैतन्मन्तव्यं नभःकुसुमं व्यतिरिक्तमेवेति, तदपि प्रकाशैकत्वान्न तथा इति ।
२ अयमत्रभावः - प्रमाणप्रमेययोर्यत् शब्दाद्यात्म श्रोत्रादिरूपं च कलाजालं तस्य ग्राह्यग्राहकाभावात्मपरस्परसंघट्टात् यत् मेलनं ततः
'शुचिर्नामाग्निरुद्भूतः संघट्टात्सोमसूर्ययोः' |
इति-नीत्या मध्यधामानुप्रवेशात् विसर्गानन्द उन्मिषति. तदनुकल्पतया यत् अन्य आनन्द उपचर्यते येन तदपि परसंविदनुप्रवेशे कारणतामेतीत्यर्थः ।
पं.१ ख. पु. मध्यमनाडीति पाठः ।
पं. ग. पु. अविभक्तरूपत्वेनेति पाठः ।
पं. १२ क. पु. कारणसमर्थत्वमिति पाठः।