पृष्ठम्:श्रीपरात्रिंशिका.pdf/७७

पुटमेतत् सुपुष्टितम्
४७
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

त्वात् स्मरणविकल्पादिनापि सर्वमयमनोगतानन्तशब्दादिवृंहणवशात् जायत एव क्षोभः, परिपुष्टसर्वमयमहावीर्यमेव पुष्टिसृष्टिकारि न तु अपूर्णं नापि क्षीणं समुचितशैशववार्द्धकयोरिव, वीर्यविक्षोभे च वीर्यस्य स्वमयत्वेन अभिन्नस्यापि अदेशकालकलितस्पन्दमयमहाविमर्शरूपमेव परिपूर्णभै<ref> अत्रायं भाव:

 'संकोचतारतम्येन पाशव ज्ञानमीरितम्
 विकासतारतम्येन पतिज्ञानं तु बाधकम् ॥'

इति सिद्धान्तरीतिः । तत्र

 'इष्टेन शिवलिङ्गेन विश्वं संतर्पितं भवेत् ।'

इति । कुलादिदर्शने पुनरसौ लिङ्गपूजा निषिद्धा, तत्र लिङ्गपूजायां सर्वाध्वमयतां ते भावनयाहुः 'पारमेश्वरं लिङ्गं हि गर्भीकृतनिखिलाध्वप्रपञ्चम्' इति । अन्ये पुनर्देह एव सर्वाध्वमय इति तत्रैव साक्षात्कारः सुलभः, इति किमनुपपत्तिना बाह्येन लिङ्गादिना फलम् । यदाहुः

 'हृदयगुहागेहगतं सर्वज्ञं सर्वगं परित्यज्य ।
 प्रणमति मितमतिरशिवं शिवाशयाश्मादिमश्लाघ्यम् ॥'

इति । इह पुनः परमाद्वयदर्शने त्रिकमते तद्विधिना तनिषेधेन वा न किंचित् प्रयोजनं, यच्चात्र कुलदर्शनं कृतं तदभिज्ञोपदर्शनफलमेव, तथा पूर्वपक्षतोद्द्योतनार्थं 'कुलात् परतरं त्रिकम्' इत्युक्तेश्च । यदुक्तं भट्टनायकेनापि अनेनैवाशयेन

 'नपुंसकमिदं नाथ परब्रह्म फलेत्कियत् ।
 तत्पौरुषनियोक्त्री चेन्न स्यात् त्वच्छक्तिसुन्दरी ॥'

इति ।

</ref रवसंविदात्मकं स्वात-


पं० ७ ख० पु० परिपूर्णमिति पाठः