पृष्ठम्:श्रीपरात्रिंशिका.pdf/७८

पुटमेतत् सुपुष्टितम्
४८
परात्रिंशिका

न्त्र्यमानन्दशक्तिमयं सुखप्रसवभृः, नयनयोरपि हि रूपं तद्वीर्यक्षोभात्मकमहाविस[१]र्गविश्लेषणयुक्त्या एव सुखदायि भवति । श्रवणयोश्च मधुरगीतादि । अन्यत्रापि इन्द्रिये अन्यत् केवलं परिपूर्णसृष्टितां न अश्नुते स्वात्मन्येव उच्छलनात् , तथा च तद्वीर्यानुपवृंहितानाम् अविद्यमानतथाविधवीर्यविक्षोभात्मकमदनानन्दानां पाषाणानामिव रमणीयतरतरुणीरूपमपि नितम्बिनीवदनघूर्णमान-


पं० २ ख० ग० पु० महाविमर्शेति पाठः ।

पं० ६ ख० पु० उच्छलत्वादिति पाठः


  1. अत्रायं भावः-पूर्वकोटावुल्लिलासयिषाद्यात्मभिर्व्यापारैरनुपहिते निस्तरङ्गजलधिप्रख्ये अनुत्तरात्मनि विसर्गे परस्मिन् प्रकाशे प्रथममुल्लासनलीलात एव व्यतिरिक्तविमृश्याभावात् चित्परामर्श: स्फुरेत् येन अस्य सर्वत्रैव स्वातन्त्र्यमुदियात्, तत: स्वस्वातन्त्र्यमाहात्म्यादेव अनुत्तरप्रकाशात्मा परमेश्वरः स्वस्वरूपं गोपयति प्रमाणादिदशारोहेण । तत्रेत्थं क्रमः नीलसुखादिरूपेण बहिर्भावनं सृष्टिः, तथा कंचित्कालं चर्वणं स्थितिः, स्वात्मसात्कारेण संहारः, तदनु ज्ञातोऽयमर्थः इति संतोषाभिमानात् लयः, ततोऽपि बहीरूपतांविलापनेन स्वात्मन्येव विश्रमणमनुग्रहः, । उक्तं च

     'परो विसर्गविश्लेषस्तन्मयं विश्वमुच्यते।'

    इति ।