पृष्ठम्:श्रीपरात्रिंशिका.pdf/७९

पुटमेतत् सुपुष्टितम्
४९
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

काकलीकलगीतमपि न पूर्णानन्दपर्यवसायि यथा यथा च न वृंहकं भवति तथा तथा परिमितचमत्कारपर्यवसानं, सर्वतो हि अचमत्कारे जडतैव अधिकचमत्कारावेश एव वीर्यक्षोभात्मा सहृदयता उच्यते, यस्यैव एतद्भोगासङ्गाभ्यासनिवेशितानन्तवृंहकवीर्यवृंहितं हृदयं, तस्यैव सातिशयचमक्रिया, दुःखेपि एष एव चमत्कारः, अन्तर्व्यवस्थितं हि यत्तत् दयितसुतसुखादि वीर्यात्मकं तदेव भावनासदृशदृगाक्रन्दादिबोधेन क्षोभात्मकं विकासमापन्नं पुनर्न भविष्यति इति नैरपेक्ष्यवशसविशेषचमत्क्रियात्म दुःखसतत्त्वम् । तदुक्तम्

'दुःखेऽपि प्रविकासेन……………………।'

इति । यदा सकलेन्द्रियनाडीभूतमरुदादिपरिपूरणे तु महामध्यमसौषुम्नपदानुप्रवेशे निजशक्तिक्षोभतादात्म्यं प्रतिपद्यते तदा सर्वतो


पं० १० ख० पु० दृगानन्दादीति पाठः ।

पं० ११ क० पु० नैरपेक्ष्यवश इति वाक्यं नास्ति ।

पं० १५ क० पु० सौषुम्न्येति पाठः ।