पृष्ठम्:श्रीपरात्रिंशिका.pdf/८०

पुटमेतत् सुपुष्टितम्
५०
परात्रिंशिका

द्वैतगलने परिपूर्णस्वशक्तिभरविमर्शाहन्तामयचमत्कारानुप्रवेशे - परिपूर्णसृष्ट्यानन्दरूपरुद्रयामलयोगानुप्रवेशेन तन्महामन्त्रवीर्यविसर्गविश्लेषणात्मना ध्रुवपदात्मकनिस्तरङ्गाकुलभैरवभावाभिव्यक्तिः। तथाहि तन्मध्यनाडीरूपस्य उभयलिङ्गात्मनोऽपि तद्वीर्योत्साहबललब्धावष्टम्भस्य कम्पकाले सकलवीर्यक्षोभोज्जिगमिषात्मकम् अन्तःस्पर्शसुखं स्वसंवित्साक्षिकमेव । न च एतत्कल्पितशरीरनिष्ठतयैव केवलं तदभिज्ञानोपदेशद्वारेण इयति महामन्त्रवीर्यविसर्गविश्लेषणावाप्तध्रुवपदे परब्रह्ममयशिवशक्तिसंघट्टानन्दस्वातन्त्र्यसृष्टिपराभट्टारिकारूपेऽनुप्रवेशः। तद्वक्ष्यते

'ततः सृष्टिं यजेत्....…....….…।'

इत्यादि । तथा


पं० २ ग० पु० प्रवेशेमेति पाठः ।

पं० ३ ग० पु० प्रवेशे इति पाठः ।

पं० १० ग० पु० तदिच्छाज्ञानेति पाठः ।