पृष्ठम्:श्रीपरात्रिंशिका.pdf/८२

पुटमेतत् सुपुष्टितम्
५२
परात्रिंशिका

'म[१]म योनिर्महद्ब्रह्म तस्मिन् गर्भे दधाम्यहम् ।
संभवः सर्वभूतानां ततो भवति भारत ॥'

इत्यपि गीतम् । सोमानन्दपादैरपि निजविवृतौ

'भगवत्या रतस्थाया प्रश्न इति परैकमयत्त्वेऽपि
तन्मयमहदन्तरालाभिप्रायेण'

इति ।

तदलम् अमुना त्रिकशास्त्ररहस्योपदेशकथातिप्रस्तावेन । तदिदम् 'अनुत्तरं कौलिकसिद्धिदंयेन ज्ञातमात्रेण खेचरीसाम्यम्' उक्तनयेन ॥१॥

एतद्गुह्यं महागुह्यं
 कथय स्व मम प्रभो।


पं० ६ ग० पु० महामन्त्रबलाभिप्रायणेति पारः।


  1. मम -परग्रह्मस्वरूपस्य, महत्-स्थूलं यतो वेद्यतया परामृश्यमानं, गर्भे-संविल्लक्षणस्ववीर्यसंक्रान्तिम्, ततः- इदन्तया परामृश्यमानात् स्वभावात् । इदमत्र नापर्यम् - परब्रह्मस्वरूपं परामृशत् प्रकृतिलक्षण तत्वमवभासयामि तस्येदन्तायामपि चित्प्रकाशानुप्रवेशं विना प्रकाशमानस्वाभावात् ब्रह्मस्वरूपत्वं, व्यवच्छिन्नवेद्यस्वरूपत्वात् तु स्थूलम्, इति
    सकलजगद्भावभेदकहेतुभूतदन्तात्मकं महब्रह्म मम जगत्सिसृक्षारसिकस्य योनिस्थानीयम् इति ।