पृष्ठम्:श्रीपरात्रिंशिका.pdf/८३

पुटमेतत् सुपुष्टितम्
५३
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

 गुह्यम् अप्रकटत्वात्, यतो गुहायां मायायां स्वरूपापरिज्ञानमय्यां सत्यां स्थित[१]मपि अप्रकटम् । अथ च महत् अगुह्यं सर्वस्य एवं-विध-चमत्कारमयत्वात् । मातृमानमेयमयभेदाविभागशालिनी भगवती शुद्धविद्यैव त्रिकोणा माया[२]यामतिशयप्रतिफलितभेदावग्रहा भवति


  1. स्थितमित्यत्र अयमाशयः-सर्वथा हि प्रकाशस्वरूप आत्मा तावत् प्रकाशत एव न केनापि अंशेन न प्रकाशते इति, अप्रकटमिति सर्वथा हृदयंगमीभावमप्राप्तमित्यर्थः ।
  2. चिकीर्पालक्षणपरामर्शरूपा परमेशशक्तिर्माया, ततश्च वस्तुतो विद्यैव, या हि जननभूः सा कथमविद्या, यत् पुनरस्या अविद्यात्वं तत् सदयमाणजडवस्स्वरक्षया, इयमेव सांख्यनये प्रकृतिरित्युक्ता, यत् पञ्चस्तव्याम्

    'यामामनन्ति मुनयः प्रकृतिं पुराणीं
     विद्येति यां श्रुतिरहस्यविदो गृणन्ति ।
    तामर्धपल्लवितशंकररूपमुद्रां
     देवीमनन्यशरणः शरणं प्रपद्ये ॥'

    इति । देवी च माया, यतो हि इयमहन्ताच्छादितोन्मिमिष्विदन्तास्वरूपा स्फुटमिदमहमिति प्रतीतिरूपा, अत एव च अन्यत्र मन्त्रवीर्यत्वमस्या उक्तम् । एतद्दशामधिशयानो हि मन्त्रः स्वोचितफलदानसामर्थ्यभाक् भवतीति । उक्तं चान्यत्र

    'न पुंसि न परे तत्त्वे शक्तौ मन्त्रं नियोजयेत् ।
    पुंस्तत्त्वे जडतामेति परतत्वे तु निष्फलः ॥'

    इति । तथा श्रीतन्त्रालोके च

    'योगिनीहृदयं लिङ्गमिदमानन्दलक्षणम् ।
    वीजं योनिसमापत्त्या सुते कामपि संचिदम् ॥'

    इति ।