पृष्ठम्:श्रीपरात्रिंशिका.pdf/८४

पुटमेतत् सुपुष्टितम्
५४
परात्रिंशिका

इति,मायापि जगज्जननभूः विद्यैव वस्तुतः, तत् उक्तेन नयेन सा एवंभूतत्वेन अपरिज्ञायमानत्वात् अभेदमाहात्म्यतिरोहिततत्प्रमात्रादिकोणत्रयत्वात् महागुहा इति उच्यते, सैव च वस्तुतः पूजाधाम त्रिशूलं त्रिकार्थे । तदुक्तम्

'सा त्रिकोणा महाविद्या त्रिका सर्वरसास्पदम् ।
विसर्गपदमेवैप तस्मात् संपूजयेत्त्रिकम् ॥'

इति । तथा

'उदेत्येकः समालोकः प्रमाणार्थमातृगः।'

[१]


पं० ४ ख० पु० महागुह्येति पाठः ।

पं० ५ ख० पु० पूजाभासेति पाठः ।

पं० ६ ख० पु० त्रिकोणे इति, तथा सुखरसति पाठः । क्रिया सर्वरसेति पाठान्तरं च।

पं० ६ ग० घ० पु० तदा त्वेक इति पाठः


  1. एतद्धामसमापत्त्या स्वातन्त्र्याख्यकौलिकशक्तेरानन्दधारा प्रसरतीत्याह विसर्गपदमिति । विसर्गपदता तस्याः तन्त्रालोके विवृता यथा

    'विसर्गता च सैवास्या यदानन्दोदयक्रमात् ।
    स्पष्टीभूतक्रियाशक्तिपर्यन्ता प्रोच्छलस्थितिः॥'

    इति, क्रमोच्छलत्तया बहिरुच्छनितमपि सत् विश्वं नवनवं भाति उक्तं चान्यत्र

    'एतल्लिङ्गसमापत्तिविसर्गानन्दधारया ।
    सिक्तं सदेव तद्विश्वं शश्वन्नवनवायते ॥'

    इति । संहारक्रमोऽत्र भावनयैव लभ्यते इति । सर्वरसेति भोगमोक्षरूपमित्यर्थः । भेदाभावेनैव सृष्टेरत्र महत्त्वमित्यर्थः ।