पृष्ठम्:श्रीपरात्रिंशिका.pdf/८५

पुटमेतत् सुपुष्टितम्
५५
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

इति। ततश्च ईदृश्यां महागुहायां शुद्धविद्याहृदयमय्यां महासृष्टिरूपायां जगजन्मभूमौ स्वचमत्काररूपेण भवति यत् 'मह-अ' इति, यत् एतत् गुह्यम् एतेन हि यत् इदमविच्छिन्नभैरवभासा विमर्शरूपं स्वातन्त्र्यं भावेभ्यः स्वरूपप्रत्युपसंहारक्रमेण आत्मविमर्शविश्रान्तिरूपत्वं, प्रकाशस्य हि स्वाभाविकाकृत्रिमपरवाङ्मन्त्रवीर्यचमत्कारात्म अह[१]मिति । यथोक्तम्

'प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः।'

इति । तदेव गुह्यम् अतिरहस्यं, तथाहिसृष्टिक्रमेण यथा अविकृतानुत्तरध्रुवरूपविश्रान्तो भैरवभट्टारकः सकलकलाजालजीवनभूतः सर्वस्य आदिसिद्धोऽकलात्मकः, स एव


पं० ६ ख० पु० आत्ममातृ विमर्शरूपस्वमिति पाठः । क्रमेण प्रमातृविमर्श इति संशोधित: पाठः ।

पं० १२ क० पु० विधान्तभैरव इति समस्तः पाठः ।


  1. पूर्णाहन्ताया लक्षणं यथा विरूपाक्षपञ्चाशिकायाम्

    'प्रत्यवमर्शात्मासौ चितिः स्वरसवाहिनी परा वाग्या।
    श्राद्यन्तप्रत्याहृतवर्णगणा सत्यहन्ता सा ॥'

    इति ।