पृष्ठम्:श्रीपरात्रिंशिका.pdf/८६

पुटमेतत् सुपुष्टितम्
५६
परात्रिंशिका

प्रस[१]रात्मना रूपेण विसर्गरूपतामनुवानो, विसर्गस्यैव कुण्डलिन्यात्मक-ह-शक्तिमयत्वात् पुनरपि तच्छाक्तप्रसराभेदवेदकरूपबिन्द्वात्मना नररूपेण प्रसरति । तथा[२] पुनरपि तन्मूलत्रि-


पं० १ ख० पु० विमर्शरूपेति पाठः ।

पं० २ ख० पु० विमर्शस्येति पाठः।


  1. प्रसरात्मनेति सन्दरूपया स्वात्मोच्छलत्तयेत्यर्थः । यदुक्तम्

    'तयोर्यद्यामलं रूपं स संघट्ट इति स्मृतः।
    आनन्दशक्तिः सैवोक्ता यतो विश्वं विसृज्यते ॥'

    इति आनन्दशक्तिरेव परविसर्ग इत्युच्यते । यथोक्तम्

    'अस्यान्तर्विसिसृक्षासौ या प्रोक्ता कौलिकी परा ।
    सैव क्षोभवशादेति विसीरमकतां ध्रुवम् ॥'

    इति । तन्नेत्थं क्रमः

    '..............विसर्गरहिता तु सा ।
    शक्तिकुण्डलिका चैव प्राणकुण्डलिका तथा ॥
    विसर्गप्रान्तदेशे तु परा कुण्डलिनीति च ।
    शिवव्योमेति परमं ब्रह्मात्मस्थानमुच्यते ॥
    विसर्गमानं नाथस्य सृष्टिसंहारविभ्रमाः।'

    इति।

  2. तथा पुनरपीति यथा

    'पूर्वं विसृज्य सकलं कर्तव्यं शून्यतानले ।
    चित्तविश्रान्तिसंज्ञोऽयमाणवस्तदनन्तरम् ॥
    दृष्टश्रुतादितद्वस्तुप्रोन्मुखत्वं स्वसंविदि ।
    चित्तसंबोधनामोक्तः शाक्तोल्लासभरात्मकः ॥
    तत्रोन्मुखस्वतद्वस्तुसंघहादस्तुनो हृदि ।
    रूढेः पूर्णतयावेशान्मितचित्तलयाच्छिवे ।।
    प्राग्वद्भविष्यदोन्मुख्यसंभाव्यमिततालयात् ।
    चित्तप्रलयनामासौ विसर्गः शांभवः परः ॥'

    इति ।